|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.135. अध्यायः 135
Mahabharata - Drona Parva - Chapter Topics
भीमेन दुर्मर्षणादिदुर्योधनानुजानां पञ्चानां हननम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
धृतराष्ट्र उवाच। 7-135-0x(4608)(50615)
दैवमेव परं मन्ये धिक्पौरुषमनर्थकम्।
यत्राधिरथिरायत्तौ नातरत्पाण्डवं रणे॥ 7-135-1(50616)
कर्णः पार्थान्सगोविन्दाञ्जेतुमुत्सहते रणे।
न च कर्णसमं लोके पश्यामि कञ्चन।
इति दुर्योधनस्याहमश्रौषं जल्पतो मुहुः॥ 7-135-2(50617)
कर्णो हि बलवाञ्छूरो दृढधन्वा जितक्लमः।
इति मामब्रवीत्सूत मन्दो दुर्योधनः पुरा॥ 7-135-3(50618)
वसुषेणसहायं मां नालं देवाऽपि संयुगे।
किं नु पाण्डुसुता राजन्गतसत्वा विचेतसः॥ 7-135-4(50619)
तत्र तं निर्जितं दृष्ट्वा भुजङ्गमिव निर्विषम्।
युद्धात्कर्णमपक्रान्तं किंस्विद्दुर्योधनोऽब्रवीत्॥ 7-135-5(50620)
अहो दुर्मुखमेवैकं युद्धानामविशारदम्।
प्रावेशयद्धुतवहं पतङ्गमिव मोहितः॥ 7-135-6(50621)
अश्वत्थामा मद्रराजः कृपः कर्णश्च सङ्गताः।
न शक्त्याः प्रमुखे स्थातुं नूनं भीमस्य सञ्जय॥ 7-135-7(50622)
तेऽपि चास्य महाघोरं बलं नागायुतोपमम्।
जानन्तो व्यवसायं च क्रूरं मारुततेजसः॥ 7-135-8(50623)
किमर्थं क्रूरकर्माणं यमकालान्तकोपमम्।
बलसंरम्भवीर्यज्ञाः कोपयिष्यन्ति संयुगे॥ 7-135-9(50624)
कर्णस्त्वेको महाबाहुः स्वबाहुबलदर्पितम्।
भीमसेनमनादृत्य रणेऽयुध्यत सूतजः॥ 7-135-10(50625)
योऽजयत्समरे कर्णं पुरन्दर इवासुरम्।
न स पाण्डुसुतो जेतुं शक्यः केनचिदाहवे॥ 7-135-11(50626)
द्रोणं यः सम्प्रमथ्यैकः प्रविष्टो मम वाहिनीम्।
भीमो धनञ्जयान्वेषी कस्तमार्च्छेज्जिजीविषु॥ 7-135-12(50627)
को हि सञ्जय भीमस्य स्थातुमुत्सहतेऽग्रतः।
उद्यताशनिहस्तस्य महेन्द्रस्येव दानवः॥ 7-135-13(50628)
प्रेतराजपुरं प्राप्य निवर्तेतापि मानवः।
न भीमसेनं सम्प्राप्य निवर्तेत कदाचन॥ 7-135-14(50629)
पतङ्गा इव वह्निं ते प्राविशन्नल्पचेतसः।
ये भीमसेनं सङ्क्रुद्धमन्वधावन्विमोहिताः॥ 7-135-15(50630)
यत्तत्सभायां भीमेन मम पुत्रवधाश्रयम्।
उक्तं संरम्भिणोग्रेण कुरूणां शृण्वतां तदा॥ 7-135-16(50631)
तन्नूनमभिसञ्चिन्त्य दृष्ट्वा कर्णं च निर्जितम्।
दुःशासनः सह भ्रात्रा भयाद्भीमादुपारमत्॥ 7-135-17(50632)
यश्च सञ्जय दुर्बुद्धिरब्रवीत्समितौ मुहुः।
कर्णो दुःशासनोऽहं च जेष्यामो युधि पाण्डवान्॥ 7-135-18(50633)
स नूनं विरथं दृष्ट्वा कर्णं भीमेन निर्जितम्।
प्रत्याख्यानाच्च कृष्णस्य भृशं तप्यति पुत्रकः॥ 7-135-19(50634)
दृष्ट्वा भ्रातॄन्हतान्सङ्ख्ये भीमसेनेन दंशितान्।
आत्मापराधात्सम्मूढो नूनं तप्यति पुत्रकः॥ 7-135-20(50635)
को हि जीवितमन्विच्छन्प्रतीपं पाण्डवं व्रजेत्।
भीमं भीमायुधं क्रुद्धं साक्षात्कालमिव स्थितम्॥ 7-135-21(50636)
बडबामुखमध्यस्थो मुच्येतापि हि मानवः।
न भीममुखसम्प्राप्तो मुच्येदिति मतिर्मम॥ 7-135-22(50637)
न पार्था न च पञ्चाला न च केशवसात्यकी।
जानते युधि संरब्धा जीवितं परिरक्षितुम्॥ 7-135-23(50638)
अहो मम सुतानां हि विपन्नं सूत जीवितम्॥ 7-135-24(50639)
सञ्जय उवाच। 7-135-25x(4609)
यस्त्वं शोचसि कौरव्य वर्तमाने महाभये।
त्वमस्य जगतो मूलं विनाशस्य न संशयः॥ 7-135-25(50640)
स्वयं वैरं महत्कृत्वा पुत्राणां वचने स्थितः।
उच्यमानो न गृह्णीषे मर्त्यः पथ्यमिवौषधम्॥ 7-135-26(50641)
स्वयं पीत्वा महाराज कालकूटं सुदुर्जरम्।
तस्येदानीं फलं कृत्स्नमवाप्नुहि नरोत्तम॥ 7-135-27(50642)
यत्तु कुत्सयसे योधान्युध्यमानान्महाबलान्।
तत्र ते वर्तयिष्यामि यथा युद्धमवर्तत॥ 7-135-28(50643)
दृष्ट्वा कर्णं तु पुत्रास्ते भीमसेनपराजितम्।
नामृष्यन्त महेष्वासाः सोदर्याः पञ्च भारत॥ 7-135-29(50644)
दुर्मर्षणो दुःसहश्च दुर्मदो दुर्धरो जयः।
पाण्डवं चित्रसन्नाहास्तं प्रतीपमुपाद्रवन्॥ 7-135-30(50645)
ते समन्तान्महाबाहुं परिवार्य वृकोदरम्।
दिशः शरैः समावृण्वञ्शलभानामिव व्रजैः॥ 7-135-31(50646)
आगच्छतस्तान्सहसा कुमारान्देवरूपिणः।
प्रतिजग्राह समरे भीमसेनो हसन्निव॥ 7-135-32(50647)
तव दृष्ट्वा तु तनयान्दुर्मर्षणपुरोगमान्।
अभ्यवर्तत राधेयो भीमसेनं महाबलम्॥ 7-135-33(50648)
विसृजन्विशिखांस्तीक्ष्णान्स्वर्णपुङ्खांञ्छिलाशितान्।
तं तु भीमोऽभ्ययात्तूर्णं वार्यमाणः सुतैस्तव॥ 7-135-34(50649)
कुरवस्तु ततः कर्णं परिवार्य समन्ततः।
अवाकिरन्भीमसेनं शरैः सन्नतपर्वभिः॥ 7-135-35(50650)
तान्बाणैः पञ्चविंशत्या साश्वान्राजन्नरर्षभान्।
ससूतान्भीमधनुषो भीमो निन्ये यमक्षयम्॥ 7-135-36(50651)
प्रापतन्स्यन्दनेभ्यस्ते सार्धं सूतैर्गतासवः।
चित्रपुष्पधरा भग्ना वातेनेव महाद्रुमाः॥ 7-135-37(50652)
तत्राद्भुतमपश्याम भीमसेनस्य विक्रमम्।
संवार्याधिरथिं बाणैर्यज्जघान तवात्मजान्॥ 7-135-38(50653)
स वार्यमाणो भीमेन शितैर्बाणैः समन्ततः।
सूतपुत्रो महाराज भीमसेनमवैक्षत॥ 7-135-39(50654)
तं भीससेनः संरम्भात्क्रोधसंरक्तलोचनः।
विष्फार्य सुमहच्चापं मुहुः कर्णमवैक्षत॥ ॥ 7-135-40(50655)
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे पञ्चत्रिंशदधिकशततमोऽध्यायः॥ 135 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-135-9 यमः संयमनव्यापारः कालः कलनव्यापरः अन्तको मारणव्यापारः तदुपमम्॥ 5-135-135 पञ्चत्रिंशदधिकशततमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|